Atmasmriti Ashtkam - First Sanskrit Song

Atmasmriti Ashtkam - First Sanskrit Song

BK Vishnu Priya

Nature & Soul
Trending4:26112 plays
0:004:26

Lyrics

नाहं देहो न मे देहभानं

नाहं नाम न मे लौकिकं मानम् ।

अहं ज्योतिबिन्दुः शुद्धस्वरूपः

शिवस्य सन्तानः आत्माऽहमात्मा ॥ १ ॥

 

नाहं दुःखं नाहं देहविकारः

न मे रागद्वेषौ न मोहाधिकारः ।

अहं शान्तस्वरूपः प्रेमस्वरूपः

शिवस्य सन्तानः आत्माऽहमात्मा ॥ २ ॥

 

न मे जातिभेदो न वर्णाभिमानः

न मे देशभेदो न देहस्य मानः ।

अहं भ्रातृदृष्ट्या पश्यामि सर्वान्

शिवस्य सन्तानः आत्माऽहमात्मा ॥ ३ ॥

 

न मे कामक्रोधौ न लोभो न मोहः

न मे देहदर्पो न मत्सरभावः ।

पवित्रस्वरूपो गुणानां निधिर्हम्

शिवस्य सन्तानः आत्माऽहमात्मा ॥ ४ ॥

 

परं धाम शान्तं मम मूलदेशः

शिवो मे पिता ज्ञानसिन्धुः सदैव ।

स्मराम्येकबाबां त्यजाम्यन्यसङ्गम्

शिवस्य सन्तानः आत्माऽहमात्मा ॥ ५ ॥

 

अहं राजयोगी स्वराज्याधिकारी

कर्मेन्द्रियाणां सदैवाधिपोऽहम् ।

स्मृतौ शिवस्य स्थितो नित्ययुक्तः

पवित्रः शान्तः शक्तिस्वरूपः ॥ ६ ॥

 

न मे भूतचिन्ता न भावीविषादः

स्थितोऽहं सदैव स्वमानस्वरूपे ।

बाबास्मृतौ मग्नचित्तः प्रसन्नः

शिवस्य सन्तानः आत्माऽहमात्मा ॥ ७ ॥

 

अहं देवतात्मा गुणैर्दिव्यपूर्णः

सतोगुणसंस्कारसम्पन्नरूपः ।

नवविश्वनिर्माणकार्ये निमित्तः

शिवस्य सन्तानः आत्माऽहमात्मा ॥ ८ ॥

 

॥ फलश्रुतिः ॥

 

इदं आत्मबोधाष्टकं यः पठेन्नित्ययुक्तः

शिवस्मृतिस्थः स्वमानस्थितश्च ।

विनश्येद् देहभानं विकाराश्च सर्वे

भवेत् शान्तशुद्धः स्वराज्याधिकारी ॥

 

ॐ शान्तिः शान्तिः शान्तिः ॥

More from Nature & Soul

View all 10

Sansar Ho Hara Bhara To

6:19 · 312 plays

Sansar Ho Hara Bhara To — lyrics & details

Premmay Sansar Bane Part - 2

BK Yasaswini, BK Sharmistha · 33:10 · 327 plays

Premmay Sansar Bane Part - 2 — lyrics & details

Premmay Sansar Bane Part - 1

BK Yasaswini, BK Sharmistha · 33:12 · 277 plays

Premmay Sansar Bane Part - 1 — lyrics & details

Maa Ko Mujhe Bachaana Hai

Harish Moyal · 7:43 · 983 plays

Maa Ko Mujhe Bachaana Hai — lyrics & details

Is Dharti Ko Swarg Banana Hai

4:16 · 397 plays

Is Dharti Ko Swarg Banana Hai — lyrics & details

You May Also Like